________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 65 उपमितिभवप्रपञ्चा कथा / वानेन महात्मना विरचिते मन्त्रमण्डले प्रविशत येनेदं प्रशाम्यति भवतां यथास्महेषु प्रशान्त / ते तु लोका तत्तेषां वचनं केचिनाकर्णयन्ति केचिदवधीरयन्ति केचिदुपहमन्ति केचिदुल्लुण्ठयन्ति केचिदिबध्नन्ति केचित्प्रतिकूलयन्ति केचित्तान्प्रति स्यन्ति केचित्ग्रहरन्ति / ततस्ते मण्डलस्था लोकाः स्थितास्तान्प्रति मौनेन / केचित्तु पुण्यभाजस्तेषां वचनं कुर्वन्ति / ततो ममापि तथाभव्यतया प्रतिभातं तत्तेषां मण्डलस्थानां लोकानां सम्बन्धि वचनं / प्रहृष्टी ऽहमुत्नुत्य तत्र मण्डले / दृष्टास्ते मया ग्रामीणलोकाः प्रबलपवनप्रेरणादतिभरीझतेन तेन प्रदीपनकेन बलादारटन्तो दह्यमानाः / ते तु मण्डलस्था लोकाः कियन्तोऽपि प्रव्रजिताः / ततोऽहमपि तेषां मध्ये प्रवजित / तदिदं भद्र मम वैराग्यकारणमिति // ततो इष्टोऽकलङ्कश्चेतसा चलितो द्वितीयमुनेरभिमुखं / न बुद्धो मया कथानकभावार्थः / ततः पृष्टो मथाकलङ्कः / यथा कुमार किमनेन तवाख्यातमौदृग् वैराग्यकारणम् / इदं चाकर्ण्य सहसा किं वा दृष्टोऽसि चेतसा // अकलङ्केनोकं / पाकर्णय। योऽयं लोकोदरो ग्रामो मुनिना भो निवेदितः / यत्र वास्तव्यको होष स समारः प्रतीयताम् // राचिरेव सदा तत्र महामोहतमोमयो। रागद्देषाग्निना तस्यां नित्य लनं प्रदीपनम् // धूमोऽत्र ताममो भावः स च तत्र प्रसर्पति / ज्वालाकलापसंकाशो राजमो भाव उच्यते // For Private and Personal Use Only