________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / 663 साहसावाप्नलक्ष्मीको जनन्यामपि दुष्टधीः / धूर्तश्चौरोऽफलारम्भी वृश्चिकोद्भूतमानवः // म चेचौराहिशस्त्रानो नियेताष्टादशाब्दकः / पञ्चविंशतिको वापि ततो जीवति सप्ततिम् / शूरः सत्यो धिया युक्तः सात्त्विको जननन्दनः / शिल्पविज्ञानसंयुक्तो धनाढ्यो वरभार्यकः / मानी चारित्रसंपन्नो ललिता घरभाषकः / तेजखौ स्थलदेहच कुलनो धनुजातकः / स चोत्पत्तिदिनानो चेन्निवेतरष्टादश दिने / ततो जीवति वर्षाणां किलामौ सप्तमन्ततिम् / कुजनेष्टो वशः स्त्रीणां पण्डितः पारदारिकः / गीतज्ञो लाञ्छनी गुह्ये पुत्राख्यो माल्यवत्सलः // धनी त्यागी सुरूपश्च शौतालुर्भरिबान्धवः / परिचिन्तितमौख्यश्च संजातो मकरे नरः / म्रियते विंशतौ नोचेत्ततः शूलेन सप्ततौ / शनैश्चरे भाद्रपदे जीवितं स विमुञ्चति // दातालसः कृतघ्रश्च गजेन्द्रतरगखनः / शालूरकुचिनिर्भीको धनभागौ सशक्तिकः / स्तब्धदृष्टिश्चलो हस्ते मानविद्याकृतोद्यमः / पुण्याढ्यः स्नेहहीनश्च कुम्भे जातो भवेन्नरः // स चेदष्टादशे वर्षे व्यानेण न इतस्ततः।। जौवेदशौतिं वर्षाणां चतुर्भिरधिकां नरः // For Private and Personal Use Only