________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / गम्भीरचेष्टितः शूरः पटुवाक्यो नरोत्तमः / कोपप्रज्ञारणश्रेष्ठो न त्यागी बन्धुवत्सलः // गान्धर्ववेदको नित्यं सेवकश्चेतरे जने / गच्छति त्वरया मार्ग मीने जातो मनुष्यकः // तदेवं देव ये प्रोता मेषादीनां गुण मया एते पूर्व खशिष्येभ्यः सर्वज्ञेन निवेदिताः // तथाहि / ज्योतिर्जानं निमित्तं च यच्चान्यदपि तादृशम् / अतीन्द्रियार्थं तच्छास्त्रं सर्वे सर्वज्ञपूर्वकम् // ततोऽत्र व्यभिचारः स्यात् केवलं नरदोषतः / विभागं हि न जानौते शास्त्रस्याल्पश्रुतो नरः // एवं च स्थिते / क्रूर ग्रहैन दृष्टाञ्चेबलवन्तश्च राशयः / ततोऽमौषां गुणाः सत्या नान्यथेत्यवधारय // ततो जीमूतराजेनोक्तं / एवमेतनास्त्यत्र मन्देहः / सम्यगावेदितमार्यण। ततः परिपूज्य दानसन्मानादिना प्रहितः सिद्धार्थः / प्रतिष्ठितं च महानन्दपुरःसरं समुचितममये मम धनवाहन इति नाम। दूतश्चास्ति तस्य जीमूतनृपतेः कनिष्ठो भ्राता नौरदो नाम / तस्य पद्मा नाम महादेवौ। मापि तस्मिन्नेवावमरे दारकं प्रसूता। प्रतिष्ठितं तस्याकलङ्क इत्यभिधानं / ततोऽहं लालितोऽत्यन्तं स च नौरदनन्दनः / क्रमेण सुखमन्दोहैस्तत्र वृद्धिमुपागतौ // For Private and Personal Use Only