________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / सत्यमेतत्म एवायं // पत्रान्तरे समायातः कश्चिमुजङ्गः। निविष्टो महेश्वरसमोपे। याचितोऽनेनोत्मारक महेश्वरः / दत्तोऽनेन / ततो रहसि स्थितस्य प्रकाशितदिक्चक्रवालं बहुविधानयरत्नघटितं दर्शितं भुजङ्गन तस्य महेश्वरवाणिजकस्य मुकुटं / प्रत्यभिज्ञातश्चानेन भुजङ्गः यथेष हेमपुराधिपतेर्विभौषणनृपतेः पदातिदुष्टशीलश्च / ततो नूनं हतमनेनेदं भविष्यति / अत्रान्तरे प्रविटोऽसौ रागकेसरितनयो वाणिजकशरौरे / ततस्तत्प्रतापाचिन्तितमनेन / भवतु नाम इतं तथापि ग्रहीतव्यमेवेदं मया / ततोऽभिहिताऽनेन भुजङ्गः / भद्र किं ते क्रियतां / भुजङ्गेनोनं / अस्योचितं मूख्यं दत्त्वा ग्राह्यतामिदं भवतेति / तुष्टो वाणिजकः / तोषितो मूल्येन भुजङ्गः / पलायितो वेगेन / गते च तस्मिंस्तत्पदानुसारेण समागतं विभौषणराजबलं / लब्धा कुतश्चिद्विक्रयवार्ता / प्राप्तः सलोनो वाणिजकः / ग्रहीतः पुरत एव लोकस्य / ततश्च क्षणमात्रेण लुप्तास्ते रत्नराशयः / बद्धोऽसावारटन्नुच्चै राजकेन महेश्वरः // इतस्ततो भयोद्धान्ता वणिक्पुत्राः सकिङ्कराः / मर्वेऽपि बान्धवैः सार्धे नष्टास्ते पार्श्ववर्तिनः / ततो विलुप्तमर्वस्वः स्वजनैः परिवर्जितः / श्राबद्धलोप्तकः कण्ठे महारासभरोपितः // भूत्या विलिप्तमर्वाङ्गस्तस्कराकारधारकः / म राजापथ्यकारीति निन्धमानः पृथग्जनैः / महाकचकलवानसंपूरितदिगन्तः / For Private and Personal Use Only