________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपता कथा / एते त्रयः प्रभोर्भान्ति प्राकारास्तस्य निर्मलाः // भ्रमअमरविस्तारतारझङ्कारबन्धुरः / भगोकपादपो भाति मनोनन्दनपालवः // रणविरेफसंकीर्णा सुरासुरकरेरिता / पुष्पवृष्टिः पतत्युच्चेर्गन्धामोदितदिक्पथा // तथा / प्राकारत्रयमध्यस्थे कुर्वाणे मार्गदेशनाम् / वरिष्ठे मततानन्दिनिर्घोषः श्रूयते किस्त // मृणालनालमत्तन्तुसन्तानाकारधारिताम् / पाचरन्ति विराजन्ते चामराणि जगत्प्रभोः // विचिचरत्नविच्छित्तिनिर्मितानि महान्ति च / सिंहासनानि योभन्ते चत्वारि चतुराहतेः / / प्रकाशितनभोमागं भास्कराकारधारकम् / राजते तत्तनूलासि प्रभामण्डलमुत्तमम् // उप्लाशितजनालादः सुरकिङ्करताडितः / ध्वनते दुन्दुभिर्दियो जगतां कर्णपेशलः // श्रातपत्रत्रयं भाति भुवनत्रयनायकः / अयं वरिष्ठ इत्येवं ख्यापनार्थमिव प्रभोः // इत्येवमादिभिर्देव देवदानवनिर्मितैः / प्रातिहार्महाभाग: म वरिष्ठो विराजते // अन्यच्च / मुगन्धिविमलो देहः प्रस्खेदामयवर्जितः / For Private and Personal Use Only