SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / योगाख्यास्त्रयो दुष्टवेतालाः / ततः परं भविष्यति शैलेशौ नाम वर्तनौ / तथा गन्तव्यं / मैव तस्यां निर्वृतिनगयी भवन्तं प्रापयिव्यति / मा यतोऽनारतस्तिष्ठतौति / एते च सर्वे तमौदासीन्यनामकं महाराजमार्गममुञ्चत एव भवतः संपत्स्यन्ते व्यतिकराः / अन्यच्च / तत्र गच्छता भवता ग्रहौतव्या समता नाम योगनलिका / तस्यां च पातनौया निजा दृष्टिः। ततस्तस्यां समतायां पतितदृष्टस्तव भविष्यति यथावस्थितपदार्थदर्शनं / ततः वयमेव विज्ञाय प्रतिक्षणं यथोचितं करिष्यसि / किं बहनोपदिष्टेनेति / तस्यां च निर्वृतौ वत्म प्राप्तस्वं सततोत्सवः / तस्यान्तरङ्गराज्यस्य फलं भोका भविष्यसि // निर्बाधो नष्टनिःशेषशत्रुसङ्घातनिर्भयः / स्थास्यसि त्वं महाभाग मततानन्दपूरितः // ये तेऽन्तरङ्गास्ते भूपास्तेऽपि भूतिसमन्विताः / मोदिव्यन्ते त्वया माधं सर्वे तलयतां गताः // अन्यच्च / कृत्वाग्रे रिपुहन्तारं भटं वैराग्यनामकम् / विधायात्यन्तनिपुणमभ्यास मार्गदेशकम् // राज्यप्रवेशादारभ्य गच्छतस्त पदे पदे / वर्धमाना महाभाग भविष्यन्ति विभूतयः // किंबहुना। म मोक्तव्यस्त्वया मार्गो निहन्तव्याश्च शत्रवः / नानुषङ्गो विधातव्यो बहिरङ्गविभूतिषु // For Private and Personal Use Only
SR No.020850
Book TitleUpmiti Bhav Prapanch Katha Part 02
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages599
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy