________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः प्रस्तावः / 943 पाल्याचारित्रधर्माद्याः स्मर्तव्यं मामकं वचः / एवं ते कुर्वतो वत्स सर्व चार भविष्यति // तगच्छ वत्म सिद्धिस्ते कुरु राज्यं सुनिर्मलम् / वया राज्यफले प्राप्ते सफलो मे परिश्रमः // उत्तमेनोक्तं / यदाज्ञापयति नाथः / ततो यथोपदिष्टं तत्सिद्धान्तेन महात्मना / तथैव विहितं सर्वमुत्तमेन सुमेधमा / ततः प्रविष्टोऽसौ तत्र राज्य तेनैव वर्मना / विहिताशेषकर्तव्यो देवोत्तममहीपतिः / / अथ मा योगिनी दृष्टिमहामोहादिशत्रुभिः / तस्यापि योजिता देव वशीकरणकामुकैः // यावता न गतस्तस्याः स दृष्टेर्वशवर्तिताम् / किं तु निर्जित्य तो तेन तेऽपि सर्वेऽपि निर्जिताः // ततो निर्दलिताशेषशत्रुवर्गो विकण्टकम् / उद्भूतभूतिकं स्फोतं राज्यमासाद्य सुन्दरम् // पालयबिजसैन्यानि सर्वाश्चाद्वादयन् प्रजाः / अमुञ्चनिर्वृतेर्मार्ग म लोके माध्यतां गतः // कथं। धन्योऽयं कृतकृत्योऽयं महात्मा नरसत्तमः / येनेदृशं महाराज्य पाखितं पुण्यकर्मणा // ततश्च / देवदानवमानुष्य शकचक्रधरैः स्तुतः / For Private and Personal Use Only