________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घछः प्रस्तावः। 601 हाह्रदश्चारित्रधर्मसेन्यं तत्स्वभावतया झुंहयति महामोहादिबलं तु कर्शयति / अत एव महामोहादयस्तं खोपकारार्थ कलुषयन्ति चारिचधर्मादयस्वात्मोपकारार्थमेव तं प्रसादयन्ति / भवता तु तस्याध्यवसायमहादस्य प्रसादनार्थ ताश्चतस्रोऽपि महादेव्यो नियोज्याः / यतो निपुणास्तास्तस्य नितराममलताकरणे / ततः प्रसन्नौमते तत्रादिमहाहूदे पुष्टीभूतेषु चारित्रधर्मादिषु स्वाङ्गिकभूपेषु कर्शितेषु महामोहादितस्करेषु पुनरग्रतो गन्तव्यं / ततो भविष्यति तस्मादेव महादात् प्रवृत्ता धारणा नाम महानदी। मा च स्थिरसुखयानासनोपविष्टेनोच्छामरहितमतिवेगेन गच्छता परित्यज्य निःशेषमिन्द्रियव्याक्षेपं भवता प्राप्तव्या / तस्यां च जनयिष्यन्ति ते महामोहादिशत्रवो विविधविकल्पकल्पकल्लोलकान् / ते भवतात्यन्तावहितेन भञ्जनीयाः / ततो द्रक्ष्यसि त्वं धर्मध्याननामानमतिप्रगुणं दण्डोलकं / तेन च गन्तव्यं / स च गत्वा पतिव्यति सबौजयोगाभिधाने महति मार्ग / तेन च गच्छतस्ते प्रतिक्षणं प्रलयीभविष्यन्ति सर्वेऽपि महामोहादिशत्रवः / समुच्चलिष्यन्ति तेषां सम्बन्धौनि समस्तस्थानानि / प्रबलीभविव्यन्ति चारित्रधर्मादयः / धवलतां धारयिष्यति समस्तापि राज्यभूमिः / न भविष्यति च रजस्तममोर्नामापि / ततो लस्यमे त्वं शुक्लध्यानाभिधानं. दण्डोलकं / तेन च गच्छतो भविष्यति ते विमलकेवलालोकः। ततः स दण्डोलको गत्वा मिलिष्यति निर्वाजयोगाख्ये सहति मार्ग। तत्र च स्थितेन त्वया विषमरिपुसमौकरणाय विधातव्यः केवलिसमुद्धाताख्यः प्रयत्नो निहन्तव्याश्च For Private and Personal Use Only