________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 64. उपमितिभवप्रपञ्चा कथा। भविष्यति तत्र राज्ये तव प्रवेशः / केवलं ग्रहीतव्यस्त्रयायमन्तरगोऽभ्यासनामा स्वाङ्गिकः सहायः / तथा चारित्रधर्मसैन्यादागमिव्यति ते वैराग्याभिधानो द्वितीयः सहचरः। ततस्ताभ्यामभ्यामवैराग्याभ्यां महितेन भवता तत्र राज्य प्रवेष्टव्यं / निरोद्धयो महामोहादिसैन्यस्य यत्नतो बहिःप्रचारः / निहन्तव्या यथादर्श बलानिर्गच्छन्तस्तसैनिकाः / संधौरणीयं चारित्रधर्मसैन्यं / स्थिरौकर्तव्या चित्तवृत्तिराज्यभूमिः / प्रवर्तितव्या मैत्रीमुदिताकरुणोपेक्षाभिधानाश्चतस्रो महादेव्यः / ततः समयसामग्रीकेण मता पूर्वदारेण प्रवेष्टव्यं तत्र राज्य भवता / तस्य च वामे दिग्भागे महामोहादिसैन्याधारभृतानि सर्वाण्यपि ग्रामनगराकरपर्वतनद्यादौनि प्रतिवमन्ति / दक्षिणे तु दिग्मागे चारित्रधर्मसैन्यस्य सम्बन्धौनि ग्रामादौनि विद्यन्ते / सर्वाधारा पुनस्तेषां चित्तवृत्तिर्महाटवी वर्तते / तस्याश्च पर्यन्ते पश्चिमे दिग्मागे विद्यते निर्वृतिर्नाम नगरौ / सा हि तां महाटवौमतिलङ्य व्यवस्थिता / तां च निर्वतिनगरौं प्राप्तस्य ते परिपूर्ण भविष्यत्यस्य राज्यस्य फलं। अतस्तद्गमनार्थमेव प्रस्थानं विधेयं / न कर्तव्योऽन्यत्र भवता प्रतिबन्धः / गन्तव्यं च तस्यां नगर्यामनवरतप्रयाणकैश्चित्तवृत्तिमध्यभागवर्तिनात्यन्तप्रगुणेन महामोहादिसैन्यास्पष्टेन चारित्रधर्मादिसैन्यातिवल्लभेन मततमौदामौन्यनामकेन महाराजमार्गण / इतश्चादावेवास्ति तावदध्यवसायो नाम महाहूदः / म यदा पथकलुषो भवति तदा प्रकृत्यैव महामोहादिसैन्यं पोषयति चारित्रधर्मानीकं तु पौडयति / यदा पुनः प्रसन्नतया खस्यो भवति तदा मोऽध्यवसायम For Private and Personal Use Only