________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 638 उपमितिभवप्रपश्चा कथा / अथ राज्य समासाद्य पितस्तेन महीभुना। उत्तमेन स सिद्धान्तः पृष्टो राज्यस्थितिं तदा / तद्यथा। कथं नाथ प्रवेच्या मि तच राज्येऽतिदुर्गमे / कथं वा निहनिष्यामि प्रचण्डचरटानहम् // कया वशीभवेचीत्या तत्सुराज्यं ममाखिलम् / कुत्र स्थाने मया नाथ नियोज्यं निजपौरुषम् // सर्वोपायविधेर्वत्ता त्वं महाभाग वर्तमे / यथा निष्कण्टकं राज्य स्थानो तबकुमर्हसि // तदेवमुत्तमेनोके सिद्धान्तः समभाषत / वत्म योग्योऽसि राज्यस्य तस्य नास्त्यत्र संशयः // तथाहि / मोक्षकांकतानस्त्वं तदर्थ धर्मसाधकः / संसाराद्विरतोऽत्यन्तमर्थकामपराङ्मुखः // मोक्षे प्रवर्तमानस्य या कौर्तिर्यच ते सुखम् / प्रसङ्गजनितं तत्ते वत्स नो बन्धकारणम् // भवप्रपञ्चः सर्वोऽपि विदितो भवतः स्फुटम् / तच्च राज्यं त्वया ज्ञातं यत्पित्रा ते निवेदितम् / यश्च प्रवेशनोपायस्तत्र राज्ये नरोत्तम / तं ते निवेदयिष्यामि निःशेषमवधारच // तत्र भोः प्रविशतान्तरङ्गराज्थे भरपतिना प्रथममेव प्रष्टव्या गुरवः / सम्यगनुष्ठेयस्तदुपदेशः / विधेयाहितानिनेवाग्रस्तदुपचर्या / For Private and Personal Use Only