________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घष्ठः प्रस्तावः। यत्मन्यं ये गुणस्तस्य ये ग्रामनगराकराः / ये देशा येऽत्र चरटा ये लोकाः शुद्धवृत्तयः // या च राज्यस्थितिः काचिदत्र राज्येऽतिसुन्दरा / तदिदं बुध्यते देव सर्वमुत्तमभूपतिः / वर्धकोऽस्मद्दलस्यायं महामोहादिसूदनः / सर्वैर्नृपगुणैर्युक्तश्चारुरेष महीपतिः // तदस्य यदिदं राज्यं तद्राज्यं परमार्थतः / अस्माकमेव संजातं देव नास्त्यत्र मंशयः // सद्दोधमन्त्रिणो वाक्यमेवमाकर्ण्य ते नृपाः / जाताश्चारित्रधर्माद्याः प्रोत्फुल्लमुखपङ्कजाः // ततश्चारित्रधर्माद्यैः कृतलोकचमत्कृति / कृतं वर्धन तोषादानन्दरमनिर्भरम् // गायन्ति च ते / यथा / इदमुत्तमराज्यमहा प्रबलं दलिताखिलतस्करवृन्दबलम् / अचिरेण भविष्यति तत्सदृशं प्रमदाय च माधुजनस्य भृशम् // दूतश्च / महामोहादयः सर्वे श्रुत्वा राज्यं तदौत्तमम् / प्रलौना वयमित्येवं मुक्तप्राणा इव स्थिताः // क यामः क्व च नण्यामः कथं जीवितरचणम् / इत्येवमाकुचीभूतास्ते किं किं किं न कुर्वते // 118 For Private and Personal Use Only