________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / समस्तभुवनालादकारिणः शुद्ध लेभ्यया // तेषां हि यदनुष्ठानं तत्तेनापि निषेवितम् / देव मध्यमराजेन तट्राज्यं भुञ्चताखिलम् // ये चान्ये तादृशा लोका: परलोककृतोद्यमाः / ग्रहौतमोक्षतत्त्वार्थास्ट्रपोऽसौ नराधिपः // ततोऽसौ यः पिता तस्य सार्वभौमो नरेश्वरः / म कर्मपरिणामाख्यस्तोषितस्तेन कर्मणा // ततोऽसंख्यसुखापूर्ण नगरे विबुधालये / स राजा मध्यमस्तेन नौतो राज्येतिलविते // ततोऽहं चरितं वौच्य चतुर्णामपि भूभुजाम् / तेषां मकौतुको जातः पञ्चमः किं करिष्यति // यावत्तत्र महाराज्ये ग्रामेषु नगरेषु च / घोषितं डिण्डिमेनोचैरुत्तमोऽत्र महीपतिः // ततस्तां घोषणां श्रुत्वा तेऽन्तरङ्गनराधिपाः / पुनः पर्याकुलीभूताः सुन्दरा इतरेऽपि च // ततश्चारित्रधर्माय तेन सदोधमन्त्रिणा / सन्धीरणार्थ सैन्यस्य तहुणा प्रतिवेदिताः // उक् हि तेन सदोधमन्त्रिणा / मा भैषुरच भो लोकाः सुन्दरोऽयं नराधिपः / अत्यन्तवत्सलोऽस्माकं महानन्दविधायकः // जानात्येष निजं राज्यमिदं रत्नौघपूरितम् / अमांश्च लक्षयत्येष नामतो गुणतोऽपि च // For Private and Personal Use Only