________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः प्रस्तावः। 633 दृश्या सह यदस्माभिरधमस्य कृतं पुरा // अकालहीनं भो देव तत्तदेव विधीयताम् / यावत्राकामति प्राज्यं राज्यमेष विमध्यमः // एवं भवतु तेनोके महामोहमहीभुजा। बहिष्कृतः स तैश्चौरः मष्टिपुरःमरैः // वशीकृतं च तद्राज्यं किं तु नात्यन्तपौडितम् / चारित्रधर्मसैन्यं च मनागेतैरपेक्षितम् // स तु राजा बहि तो मानसन्मानपूजनैः / तदात्मसैन्यं राज्यं च पालयत्यन्तरान्तरा // प्रविभागेण संस्थाप्य मोऽहोरात्रं क्षणे क्षणे / धत्ते धर्मार्थकामेषु कार्य कालोचितं सदा // तेऽपि चारित्रधर्माद्या मनागाप्यायितास्तथा / तेन राज्ञा न कुर्वन्ति शोकाक्रन्दनरोदनम् // राजानो ब्राह्मणाद्याश्च ये सदाचारवर्तिनः / त्रिवर्गसाधनोद्युक्तास्तेषां रूपं भजत्यसौ // अथ तत्तादृशं कुर्वन्निजराज्यं स पार्थिवः / जनमध्ये गतः श्लाघां धन्योऽयं पुण्यकर्मकः // स कर्मपरिणामाख्यो यः पिता तस्य भूपतेः / असावपि मनाक् तुष्टो दृष्ट्वा तत्तस्य चेष्टितम् // ततस्तं पशुसंस्थाने कदाचिमुखकारणे / कदाचिन्मानवावासे नगरे सुखपूरिते // कदाचिच्च सखोपेते नगरे विबुधालये / For Private and Personal Use Only