________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 632 उपमितिभवप्रपञ्चा कथा / मन्त्रिणोक्र महाराज वत्मलोऽयं नराधिपः / अस्माकं किंतु चारित्रधर्मसैन्यमपोचते // तथाहि / यथास्मान्मन्यते चित्ते बन्धुभूतानयं सदा / तथानुवर्तयत्येष सैन्यं तदाप पार्थिवः // केवलं पक्षपातोऽस्य गाढमस्मासु दृश्यते / चारित्रधर्मसैन्ये तु राजायं शिथिलादरः // इहलोके यथा मतं चित्तमस्य महौभुजः / तथान्तरान्तरा किंचित्परलोकमपौक्षते // प्रतिबद्धं मनो नित्यं यथास्य धनकामयोः / तथानुशीलयत्येष धर्मकार्यमपि क्वचित् // भद्रकः सर्वदेवानां स्तोता मर्वतपखिनाम् / दानशौलपरः किंचिन्न मच्छास्त्रविदूषकः // तदेवं देव राजायं नास्माकमतिसुन्दरः / यस्माचारित्रधर्मादिमन्यं जानाति किंचन // तदत्रावहितैर्भाव्यं देवास्माभिः प्रयोजने / प्रवेशोऽस्यापि राज्येऽत्र न दातव्यः कथंचन // प्रविष्टो हि भवेदेष खसैन्यपरिपालकः / श्रास्माकीनं पुनः सैन्यं बाधते नात्र संशयः // बहिर्भूतः खसैन्यस्य यद्येष परिपालनम् / कुर्यात्तथापि नास्माकं भवेदत्यन्तबाधकः // अस्यापि च तदेवात्र बहिष्करणकारणम् / For Private and Personal Use Only