________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः प्रस्तावः / अनाकलय्य लोकेऽमौ लाघवं चात्मनोऽतुलम् / कार्याकार्यविचारेण रहितात्मा म पार्थिवः // तां मातौं समादाय सद्रपालोकलम्पटः / तदनमोक्षमाणोऽसौ नान्यत्किंचन बुध्यते // ततस्तं तादृशं वीक्ष्य वृत्तान्तं मोऽधमो नृपः / बहिरङ्गजनेऽप्युच्चै निन्दायाः पात्रतां गतः // समस्तैरपि संभूय स गाढाकार्यकारकः / राज्यानिष्कासितो लोकैर्गुणाः सर्वत्र पूजिताः // ततो दुःख शतापूर्ण: क्लिशित्वामौ बहिर्जने / प्राप्तो निकृष्टराजीयामवस्थां पापिपञ्जरे // म कर्मपरिणामेन राज्य दुष्टं कृतं त्वया / इत्यु का पौद्यते दुःखैरनन्तैस्तत्र रोषतः // ततो मया चिन्तितं / दूदमप्यस्य संजातमधमस्येदृशं फलम् / अज्ञानदोषतो हन्त नान्यत्किंचन कारणम् / हतीयवत्सरे देव जातो राजा विमध्यमः // राज्य तत्रान्तरङ्गे च विहितं घोषणादिकम् / समस्तोऽपि च वृत्तान्तः पर्यालोचादिकस्तथा // ततः सैन्यदये जातो यथानन्तरराज्ययोः / ततश्च / महामोहमहाराजो मन्त्रिणं प्रत्यभाषत / आर्य वर्णय कौवृक्षो गुणैरेष विमध्यमः // For Private and Personal Use Only