________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा। ततश्चरटमैन्येन तेन तद्राज्यमञ्जमा / वशीकृत्य हताः सर्वे तस्यानुचरपार्थिवाः // म तु राज्यपरिभ्रष्टः स्वीयबान्धववर्जितः / रिपुमैन्यवृतोऽप्युच्चैर्मन्यते सुखमात्मनः // दुःखरूपं पुनर्दुःखकारणं दुःखजन्मकम् / मन्यते हि विपर्यासाच्छब्दाद्यनुभवं सुखम् // राजसेवकशैलूषबन्दियूतकरोपमः / मंजातो बहिरङ्गेषु म देशेषु महीपतिः // षिड्गप्रायो महापापः कृपास्थानं विवेकिनाम् / नास्तिको हतमर्यादो धर्मानुष्ठानदूषकः // मन्यते धार्मिक लोकं महास्यं भोगवञ्चितम् / विदग्धं मन्यते मोहादर्थकामपरायणम् // चिन्तयति च / यस्य रूपेक्षणं नित्यं ग्रहिणौ वशवर्तिनी / धनं च भूरि तस्येह मोक्षः शेषा विडम्बनाः // एवं च बहिरङ्गेषु स देशेषु विचेष्टते / राजा विलुप्तसर्वस्वः सुखंमन्यस्तथापि च // अन्यदा तेन मातङ्गी वौचिता रूपशालिनौ / तस्यामध्युपपन्नश्च ततोऽसौ दृष्टिदोषतः / / ततश्च / अनालोच्य कुलस्योच्चैः कलङ्कमतिदारुणम् / अदृष्ट्वा पापसातमकवायतिवीक्षणम् // For Private and Personal Use Only