________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपच्चा कथा / अमुक्रमौदृशः प्रायो विविधैः संविधानकैः / यावच्च मुक्तपूत्कारं दारुणाक्रन्दभौषणम् / पताकाजालबीभत्स विषमाहतडिण्डिमम् // उद्वेगहेतुस्ते भद्र नितरां जनतापकम् / इदं हि स्वापकं रौद्रं न निर्गच्छति मन्दिरात् / तावदन्यत्र गच्छावो न युक्तं द्रष्टुमोदृशम् / परदुःखं कृपावन्तः सन्तो नोदौक्षित क्षमाः // एवं भवतु तेनोक्ने निर्गतौ राजमन्दिरात् / संप्राप्तौ हट्टमार्गषु ततः खस्रौयमातुलौ // अवान्तरे कृतम्ला निर्विज्ञाय रिपुकम्पनम् / मृतं समुद्रस्वानार्थं पश्चिमे याति भास्करः // अथादित्ये तिरोभूते तिमिरेण मलौमसे / जगत्यशेषे संजाते बोधिते दीपमण्डले // गोधनेषु निवृत्तेषु विलौनेषु शकुन्तिषु / वेतालेषु करालेषु कौशिकेषु विचारिषु // मूकीभूतेषु काकेषु निद्रिते नलिनौवने / निजावश्यकलग्नेषु मुनिषु ब्रह्मचारिषु // रटत्सु चक्रवाकेषु रहितेषु खकान्तया / उल्लमत्सु भुजङ्गेषु सतोषे कामिनोजने // इत्थं प्रदोषे संपन्ने प्रष्टजनमानसे / कश्चिन्त्रिजापणद्वारे दृष्टस्ताभ्यां महेश्वरः // उत्तुङ्गविष्टरे रम्ये निविष्टः किल लौलया। For Private and Personal Use Only