________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः प्रस्तावः / न्यासेन कर्मपरिणाममहाराजमभ्यर्थं कैकं संवत्मरं राज्यं दापयिव्यामि / ततो भवता तेषां पलामपि राज्यानां निरीक्षणार्थ प्रहेतव्योऽन्तरङ्गो वितर्को नामायमात्मीयोऽनुचरः / ततस्तेषु षट्स राज्येषु दृष्टेषु भवतः सर्वोऽप्यर्थः प्रतीतो भविष्यति / अप्रबुद्धेनोक्तं / यदाज्ञापयति भगवान् / ततोऽनुष्ठितं सिद्धान्तेन सर्व यथोकं / प्रहितोऽप्रबुद्धेन निरौक्षणथं वितर्कः / समागतो लच्चित्ते तन्मनुष्यजन्माभिधाने वर्षषट्वे / दृष्टोऽप्रबुद्धः। विहिता प्रतिपत्तिः / अभिहितमनेन। देव अस्ति तावत्प्रविष्टोऽहं तस्थामन्तरङ्गराज्यभुक्तो। श्रुतो मया नगरयामादिषु दौयमानस्तन्मनुष्यभावावेदनाभिधानो डिण्डिमकः / तत्र चेदमुद्धोषितं / यथा / निकृष्टो वर्तते राजा प्राक्प्रवाहेन हे जनाः / समाचरत कृत्यानि तथा पिबत खादत // ततस्तां घोषणां श्रुत्वा सर्व ताजमण्डलम् / कीदृक् स्थादेष राजेति चिन्तया क्षोभमागतम् // बालोचयन्ति राजानः स्वस्थानेषु परस्परम् / मन्त्रयन्ति च विद्वांस इति भोः किं भविष्यति / संप्रसारं प्रकुर्वन्ति खगेहेषु कुटुम्बिनः / कीदृशोऽयं भवेद्राजा निकृष्ट इति चिन्तया // ते च सर्वेऽपि संभूय चरटा निजसंसदि / महामोहादयो देव पर्यालोचमुपागताः // ततो विषयाभिलाषमन्त्रिणा महामोहनरेन्द्र प्रत्यभिहितं / यथा For Private and Personal Use Only