________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / भ्यामधुना भ्रम्यते / तत्पुनस्तस्य सम्बन्धि चारित्रधर्मादिकं समस्तमपि महाबलं महामोहादिशत्रुभिर्निरुद्धमास्ते। अप्रबुद्धेनोकं / श्रुतं तावदिदं मया सामान्येनैकरूपं सुखदुःखकारणं तदन्तरङ्गराज्य / अथ यदुक्तं भगवता यथा तदेव विशेषेणानेकरूपमिति तदधुना श्रोतुमिच्छामि / मिद्धान्तेनोकं / पाकर्णय / स कर्मपरिणामाख्यो यो मया वर्णितः पुरा / स प्रमाणं कृतस्तेन राज्ञा सर्वेषु कर्मसु / ततश्च / . इदमेव महाराज्य परिपूर्ण पृथक् पृथक् / सर्वेभ्यो निमपुत्रेभ्यः स ददाति यथेच्छया // सूनवस्तस्य चानन्तास्तेभ्यस्तद्दत्तमुच्चकैः / अनेकरूपतां याति राज्य पात्रविशेषतः // ततस्तेषां भद्र कर्मपरिणाममहाराजपुत्राणामनन्तरूपाणां तद्राज्य केषांचिदुःखकारण केषांचित्सुखकारणमतो विशेषेणानेकरूपं भवति / अप्रबुद्धेनोक / भदन्त तेषां कर्मपरिणामसुतानां तद्राज्यं कुर्वतां कस्य किं संपन्नमिति श्रोतुमिच्छामि / सिद्धान्तेनोक्त / निवेदितमेव भद्राय यथानन्तास्ते कर्मपरिणामपुत्राः / ततः कियता सम्बन्धि स्वरूपं भद्राय कथयिष्यते / तथापि यदि महत्कवहलं भद्रस्य ततोऽत्येको व्यापकः कथमोपायः / तेनैव कथयिष्ये / अप्रबुद्धेनोक्तं / अनुग्रहो मे / सिद्धान्तेनोन / भट्र मन्ति तस्य कर्मपरिणामस्य षट् पुत्राः। तद्यथा / निकृष्टोऽधमो विमध्यमा मध्यम उत्तमा वरिष्ठश्चेति / तेभ्योऽहं कथंचिदचनवि For Private and Personal Use Only