________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः प्रस्तावः। 610 तहलं भवति स्वयमेव तत्र संसारिजीवमहाराज्ये प्रभुरिति / यदा तु कथंचित्मसारिजौवस्तदात्मीयं राज्यं बलं मम्मृद्धि स्वरूपं च लक्षयेत् तदा विग्टह्णाति तेन महामोहेन सार्धमुत्कर्षयति निजबलं वर्धयति स्वसम्मृद्धि / विग्रहारूढच बहुगो महामोहं विजयते ऽनेकशो महामोहेनाप्यसौ विजीयते। यावन्मात्रं यदा विजयते तावन्मात्रं तदा सुखमाप्नोति। यावन्माचं यदा विजौयते तावन्मात्रं तदा दुःखमास्कन्दति। यदा तु वौर्यमाप्नोति मङ्ग्रामाभ्यासयोगतः / भद्र संसारिजीवोऽसावचिन्यमतुलं किल // तदा निःशेषमुन्मल्य महामोहपुरःसरम् / शत्रुवर्ग समाप्नोति राज्यं निष्कण्टकं हि मः // ततो विगतचित्तोऽसौ सततानन्दपूरितः / ललमानः सुखेनास्ते साम्राज्यं प्राप्य सुन्दरम् // तदेवं तस्य तद्राज्य कारणं सुखदुःखयोः / पालनापालनाज्जातमेकमेव न संशयः // सुखदुःखनिमित्तस्य सामान्यस्य तदीदृशौ / तस्यान्तरङ्गराज्यस्य सामग्री भद्र कौनिता // अप्रबुद्धेनोक्तं / भदन्त किमधुना तस्य संसारिजौवस्य सौराज्यं किं वा दौराज्यमिति / सिद्धान्तः प्राह / भद्रात्र प्रस्तावे तावत्तस्य दौराज्यं वर्तते / न जानौते वराकोऽद्यापि संसारिजीवस्तदामौयं राज्यं न वलं न सम्मृद्धिं नापि स्वरूपमिति। स हि तपस्वी संसारिजीवो बहिरङ्गेषु देशेषु दुःखमागरावगाढो मैथुनसागरा For Private and Personal Use Only