________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / किलैष राजा संजातो निकृष्टो यत्करिष्यति / तन जानौम इत्येवं जाताश्चिन्तातुरा वयम् // तदेष देव संजातः क्षोभो नो निर्निमित्तकः / वृथालमाकुलौभूता वयमत्र प्रयोजने // यतः / स कर्मपरिणामेन निकृष्टः स्वयमेव भोः / जनितस्तादृशो यादृग् न क्षमोऽस्मत्प्रपौडने // किं तर्हि / वशवर्ती सदास्माकमाज्ञानिर्देशकारकः / अस्मत्यदातिवर्गऽपि किङ्करः कर्मकारकः // तत्कर्मपरिणमेन चेत्तस्मै विनियोजितम् / इदं राज्य ततो देव वयमेवात्र नायकाः // लन्धे निष्कण्टके राज्य तदेवं देव भावतः / हर्षस्थाने किमस्माभिरातुरैर्बत भूयते // अथ प्राह महामोहो द्रुतमार्य निवेद्यताम् / स कर्मपरिणामेन कीदृशो जनितः किल // विषयाभिलाषेणोक्तं / देवाकर्णय / कुरूपो दुर्भगः करः परलोकपराङ्मुखः / धर्मार्थकाममोक्षश्च दूरतः परिवर्जितः // गुरूणां निन्दकः पापो देवविद्वेषकारकः / विशुद्धाध्यवसायस्थ गन्धेनापि विनाकृतः / / जगदुद्वेगहेतश्च साक्षादिव विषाङ्कुरः / For Private and Personal Use Only