________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घः प्रस्तावः। ___995 धर्मग्टहिधर्मी सुतौ सन्तोषस्तन्त्रपालः शुभाभयादयो महाभटाः / अपि च / संमारिजीवराजेन सौराज्ये प्रकटीकृतम् / चतुरङ्ग महामैन्यं कस्तवर्णयितुं क्षमः // अनन्तगुणसम्भारगौरवं तस्य सुन्दरम् / म एव विमलीभूतः केवलं यदि बुध्यते // भूमिस्तत्र महाराज्ये चित्तवृत्तिर्महाटवी / सर्वाधारतया वर्तते / तस्यां निविष्टानि मात्त्विकचित्तजेनपुरविमलमानसशुभ्रचित्तादौनि नानारूपाणि नगराणि / तदनुकारिणो ग्रामाकरादयः / तदुपलक्षिता विविधरूपा देशाः / तस्यां च राज्यभुक्तिभूमौ विद्यन्ते घातिकर्मसंज्ञा भूयांमश्चरटाः सन्नीन्द्रियनामानस्तस्कराः परिधमन्ति कषायरूपा लूषकाः विचरन्ति नोकषायाख्या स्तुण्टाकाः उपशवन्ते परोषहाहाश्चारभटाः संभवन्धुपसर्गाभिधाना दुष्टभुजङ्गाः विलसन्ति प्रमादनामकाः षिङ्गाः / तेषां च सर्वेषां द्वौ भ्रातरौ सर्वप्रधानौ कर्मपरिणामो महामोहश्च / एतौ चात्यन्तदर्पिष्ठौ समृद्धौ रणशालिनौ / चतुरङ्गबलोपेतौ भटकोटिभिरावृतौ // ततश्चेमौ मन्यते / यदुत / कोऽयं संसारिजीवोऽत्र को वा चारित्रधर्मकः / श्रावयो किभूरेषा चित्तवृत्तिर्महाटवी // अस्मदीयमिदं राज्यं नास्त्यन्यः परिपन्थिकः / For Private and Personal Use Only