________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 814 उपमितिभवप्रपञ्चा कथा / प्रत्यक्षविरुद्धमिदं / यतः स्वल्पतराणमिह जीवानां राज्यमुपलभ्यते यावता सर्वेऽपि जीवाः सुखं दुःखं चानुभवन्तो दृश्यन्ते / सिद्धान्तेनोकं / भद्र न बहिरङ्गमिदं राज्यं यत्मुखदुःखयोः कारणं किं तन्तिरङ्ग। तच्च सर्वेषां समारोदरविवरवर्तिनां जीवानामस्त्येव / ततो ये जीवास्तत्सम्यक् पालयन्ति तेषां सुखं संपादयति / ये त दष्यालितं तद्राज्यं कुर्वन्ति तेषां दुःखं जनयति / ततो नास्ति प्रत्यचविरोधः / अप्रबुद्धः प्राह / भदन्त तत् किमेकरूपं राज्यं किं वानेकरूपं / सिद्धान्तेनोक्तं / सामान्येनैकरूपं विशेषेण पुनरनेकरूपं / अप्रबुद्धः प्राह / यद्येवं ततस्तत्र सामान्यराज्ये तावत्को राजा कः कोशः किं बलं कात्र भूमिः के देशाः का वा सामग्रौति श्रोतुमिच्छामि / सिद्धान्तेनोक्त / भद्राकर्णय / सर्वस्याधारभूतोऽस्य राज्यभारस्य सुन्दर / एकः संसारिजीवोऽत्र महाराजो निगद्यते // कोशस्तत्र महाराज्ये भाविकै रत्नराशिभिः / परिपूर्णः शमध्यानज्ञानवौर्यादिभिः परैः // भुवनानन्दसन्दोहदायकं चात्र सुन्दरम् / क्षौरनौरधिसङ्काभं चतुरङ्ग महाबलम् // तच च महासन्ये गाम्भीर्यौदार्यशौर्यादयः स्यन्दनाः / यश:सौष्ठवसौजन्यप्रश्रयादयः करिवराः। बुद्धिपाटववाग्मित्वनैपुण्यादयस्तुरङ्गमाः / अचापखमौमनस्यमनखिलदाक्षिण्यादयः पदातिवर्गाः / संसारिजीवमहाराजहितकारी चतर्मुखश्चारित्रधर्मनामा प्रतिनायकः / तस्य च सम्यग्दर्शनो नाम महत्तमः सबोधो मन्त्री यति For Private and Personal Use Only