________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घष्ठः प्रस्तावः / 613 तथाहि / विविधोऽत्र लोको बहिरङ्गोऽन्तरङ्गश्च / तत्र बहिरङ्गलोकदोषाः पुरुषस्य लगन्ति वा न वा / अन्तरङ्गलोकदोषाः पुनर्लगन्न्येव / तत्रान्तरङ्गलोकानां दोषकारित्वसूचकम् / श्राकर्णय महाराज कथयिष्ये कथानकम् // नृपतिराह / निवेदयतु भगवान् / सूरिणोकं / प्रतौतमेव तावदिदं भवादृशां यथा कर्मपरिणाममहाराजस्य कालपरिणतेश्व महादेव्याः सम्बन्धीन्यपत्यानि दुर्जनचक्षुर्दोषभयाद विवेकादिभिमन्त्रिभिर्भुवने गोपितानौति / इतथास्ति शुद्धसत्यवादी समस्तमत्त्वसङ्घातहितकारौ सर्वभावस्वभाववेदी तयोः कालपरिणतिकर्मपरिणामयोर्दैवौनृपयोः समस्तरहस्यस्थानेम्वत्यन्तभेदज्ञः सिद्धान्तो नाम परमपुरुषः / तस्य चाप्रबुद्धो नाम संपन्नो विनेयः / स च तं पप्रच्छ / भगवनिह पुरुषस्य किमिष्टं किं वानिष्टमिति / सिद्धान्तः प्राह / भद्र सुखं पुरुषस्थेष्टं दुखं पुनरनिष्टमिति। सुखार्थ हि सर्व पुरुषाः प्रवर्तन्ते दुःखात्तु सर्वे निवर्तन्त इति / अप्रबुद्धः प्राह / भदन्त किं पुनस्तस्य सुखस्य कारणं किं वा दुःखस्य / सिद्धान्तेनोकं / राज्यं सुखस्य कारणं तदेव च दुःखस्य / अप्रबुद्धः प्राह / भदन्त एकमेव द्वयस्थापि कारणं ननु विरुद्धमिदं / सिद्धान्तेनोक्र / नास्यत्र विरोधः / यतः सुपालितं तत्मुखस्य कारणं दुष्यालितं तदेव दुःखस्येति / अप्रबुद्धः प्राह / किं राज्यमेव सुखदुःखयोः कारणं नापरं किंचिदपि / सिद्धान्तः प्राह / बाढं राज्यमेव सुखदुःखयोः कारणं नापरं किंचिदपि / अप्रबुद्धेनोक / ननु 115 For Private and Personal Use Only