SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवायचा कथा। यदा ते कन्यके भार्ये लस्यते धनशेखरः / तदाभ्यां पापमित्राभ्यां निःसन्देहं वियोक्ष्यते // ललमानस्ततस्ताभ्यां सार्धमेष खलीलया / अनन्तानन्दसन्दोहभाजनं च भविष्यति // ततो हरिनरेन्द्रेण भूयोऽपि स मुनिस्तदा / पृष्टो ललाटविन्यस्तकरकुड्मलशालिना // यथा / गुणसन्दोहसंपूर्ण पापमित्रवियोजिके / कथं ते लस्यते कन्ये भदन्त धनशेखरः // सूरिणोक्तं / अन्तरङ्गो महाराजः प्रसापाक्रान्तमण्डलः / स कर्मपरिणामाख्यः प्रतीतो हि भवादृशाम् // म तोपितो महादेव्या काले भाविनि जातचित् / तत्पित्रा तव मित्राय ते कन्ये दापयिष्यते // ततो वयस्यस्ते भूयः प्रास्यते परमं सुखम् / नान्यः कश्चिदुपायोऽस्ति विमुचाकुलचित्तताम् // तदाकर्ण्य मुनेर्वाक्यं मां प्रत्येष निराकुलः / संजातो हरिराजेन्द्रः पुनरित्थमभाषत / भदन्त यदुक्तं भगवता यथा तेन धन खरेण पापमैथुनसागरदोषात्तादृशं कर्माचरितं स्वरूपेण पुनर्भट्रकोऽसौ धनशेखर इति तत्र ममायमधुना वितो यथा कि स्वरूपेण निर्मलः परदोषेणापि दुष्टः पुरुषो भवति / सूरिणोक्तं / महाराज भवत्येव / For Private and Personal Use Only
SR No.020850
Book TitleUpmiti Bhav Prapanch Katha Part 02
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages599
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy