________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घष्ठः प्रस्तावः / कदा पुनर्वियुज्येत येन स्यात्मुखभाजनम् // सूरिस्वाच / अस्ति भोः मततानन्दं शुभ्रचित्तं महापुरम् / विद्यते भुवनानन्दस्तत्र राजा सदाशयः // तस्य चास्ति महादेवी लोके ख्याता वरेण्यता / तस्या दे कन्यके धन्ये विद्यते चारलोचने // एका ब्रह्मरतिर्नाम द्वितीया मुक्ततोच्यते / नयोश्च गुणविस्तारं कोऽत्र वर्णयितुं चमः // तथाहि। यं नरं चारुसर्वाङ्गौ विलोकयति लीलया। लोके ब्रह्मरतिः साध्वी स पवित्रो निगद्यते // मा हि सर्वगुणाधारा सा वन्द्या योगिनामपि / मानन्तवीर्यसन्दोहदायिनीति निगद्यने / मा मैथमाभिधानस्य धनशेखरवैरिणः / तिष्ठतो मित्ररूपेण सवस्वं नाशकारिणौ / मुक्तता हि महाराज निःशेषगणमन्दिरम् / अशेषदोषसंगोषकारिणौ च न संशयः // विरोधोऽस्ति नया साध स्वभावेनैव सर्वदा / धनशेखरमित्रस्य मागरस्यास्य पापिनः / / तां शुद्धधर्मपूर्णाङ्गोमेष सागरनामकः / पापात्मा कन्यकां दृष्ट्वा दूरतः प्रपलायते // एवं च स्थिते। For Private and Personal Use Only