________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घठः प्रस्तावः। दृष्टो हरिनरेन्द्रेण सूरिक्त्तमनामकः // सत्माधुसङ्घमध्यस्थमथोद्याने मनोरमे / दृष्ट्वा तमुत्तमाचार्य हरिस्तोषमुपागतः // ततश्च / महितो राजवन्देन तं मुनिं स नरेश्वरः / वन्दित्वा मपरीवारं निषणः शुद्धभूतले // ततो भगवता तेषाममृतास्वादनोपमा / सर्वेषामेव जन्तूनां विहिता धर्मदेशना // ततो भगवतो वाक्यमाकर्ण्य स महीपतिः / अत्यन्तं रञ्जितश्चित्ते ततश्चेदमचिन्तयत् // सूक्ष्मव्यवहितातीतभाविभावेषु भूरिषु / नूनं भगवतो ज्ञानमस्य सर्वेषु विद्यते // तदेनं प्रश्रयाम्यद्य सूरिं किं तत्र कारणम् / येनाहं प्रेरितस्तेन वयस्येन जले तदा // वल्लभोऽहं पुरा तस्य स च मे धनशेखरः / किं पुनः क्षणमात्रेण तेन तादृग विचेष्टितम् // किं वा रुष्टः म देवोऽस्य कस्मादास्फोटितस्तथा / किं जीवति मृतो वा मे वयस्यो धनशेखरः / यावत्म चिन्तयत्येवं चेतमा हरिपार्थिवः / तावविज्ञाय तत्मवं सूरिरित्यमवोचत / यचिन्तितं त्वया भूप किं पुनस्तत्र कारणम् / वत्मलेनापि मित्रेण यदहं प्रेरितो जले / For Private and Personal Use Only