________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा। समर्गलतरो धार्मिक इति / ततो भो भो धनशेखर विमुञ्च विषादं अवलम्बख धैर्यं कुरु पुनर्धनार्जनोत्साहं पश्य मदीयवौय विधेहि मामकमेनमुपदेशमिति / ततोऽहं तेन चार्वणि सागरेण दुरात्मना / एवं विधाय दुर्बुद्धिं पातकेषु प्रवर्तितः // तानि च मया तानि नानादेशविचारिणा / यानि यान्युपदिष्टानि तेन पापानि बन्धुना // केवलं पापकर्माणि कुर्वतोऽप्यनिशं मम / न जातो धनगन्धोऽपि भद्र पुण्योदयं विना // अन्यच्च / पुण्योदयविनिर्मुको मिथ्यामानेन सुन्दरि / न गतः श्वशरस्थापि बकुलस्य ग्टहे तदा // किं च / म यौवनवयस्थेन युक्तो मैथुननामकः / मां तस्यामप्यवस्थायां प्रेरयन्नेव तिष्ठति // केवलं तदवस्थं मां पुण्योदयविवर्जितम् / नारी निर्धनमेकापि काणक्षणापि न वोचते // ततो दन्दह्यते चेतो गाढं मे मैथनेच्छया / न च संपद्यतेऽभीष्टं किंचित्पुण्योदयं विना // एवं विविधदेशेषु दुःखसङ्घातपीडितः / मैथुनेच्छापरीतोऽहं बम्भमौमि धनाशया // इतश्चानन्दनगरे तेन भूरिगुणाकरः / For Private and Personal Use Only