________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः प्रस्तावः। 800 यावदोषणनादेन लाङ्गलोलामकारिणा / वामितो म्हगनाथेन कथंचित्र मृतस्तदा // किंबहुना। यद्यल्टतं मया कर्म तदानौं धनकाम्यया / तत्तत्पुण्योदयाभावाद्विपरौतमुपस्थितम् // किं वापरं निगद्येत बुभुक्षाक्षामकुक्षिणा / भिक्षापि च न लब्धाहो मया पुण्योदयं विना // ततो विषादमापन्नः सर्वकर्मपराङ्मुखः / स्थितोऽहं मौनमालम्ब्य कृत्वा पादप्रसारिकाम् // ततः स मागरो भने ममोत्साहविधित्मया / हितोपदेशदायोति तवाहमिति जल्पितः // उक्तं च तेन सागरेण / यथा / न विषादपरैरर्थः प्राप्यते धनशेखर / अविषादः श्रियो मूलं यतो धौराः प्रचक्षते // ततः सर्वथा विषादं विरहय्य प्रतिकूलेऽपि विधौ पुरुषः पुरुषकारेण धनमुपार्जयन्नेव पौरुषं लभते नान्यथा / किं बहना। अलौकमपि गदिवा परमपि मुषित्वा मित्रद्रोहमपि कृत्वा मातरमपि हत्वा पितरमपि व्यापाद्य सहोदरमपि निपात्य भगिनीमपि विनाश्य बन्धुवर्गमपि मारयित्वा समस्तपातकान्यपि विधाय पुरुषेण सर्वथा धनं खोकर्तव्यं / यतः कृतपातकोऽपि पुरुषो धनौ धनमाहात्म्यादेव पूज्यते खोकेन परिवार्यते बन्धुवर्गण माध्यते बन्दिवन्देन बहुमन्यते विद्वज्जनेन गम्यते विश्राद्धधार्मिकजनादपि For Private and Personal Use Only