________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः प्रस्तावः। 601 अरोमहितो जलधितौरं हरिकुमारोऽहं च / निरूपिताः सांयात्रिकपुरुषाः / अतिलचिन्ता स्तोकवेला / समुदतः कामिनीगण्डपाण्डुरः शशधरः / समागता संक्षोभितजलचरनिनादगर्भा समुद्रवेला / समारूढो यानपात्रमात्मौयं सपत्नीको हरिकुमारः / अहं तु स्वकीयं यानपात्रमारुरुक्षुरुको हरिणा / यथा धनशेखर त्वमप्यत्रैव मदीयपोते समारुह / न शक्नोम्यहं भवन्तं विहाय निमेषमप्यासितं / ततः समारूढोऽहमपि तत्समौपे / कृतानि मङ्गलानि / उपयुक्तः कर्णधारः / श्रापूरिते यानपाचे प्रवृत्ते पवनवेगेन / तथा वहतां च गतानि कतिचिद्दिनानि / लवितो बहीयान् ममुद्रः / अत्रान्तरे ममाटहीतसङ्केते भद्र पापवयम्यकौ।। सागरो मैथुनश्चोच्चैः प्रेरको समुपस्थितौ // ततश्च / मागरेण कृता बुद्धिर्ममेषा पापकर्मणा / यथेदं रत्नसंपूर्ण बोहित्थं कस्य मुच्यते / ततो मया चिन्तितं / अहो मे भाग्यातिशयः। तथाहि / एक तावन्ममात्मीयं बोहित्यं रत्नपूरितम् / द्वितीयमिदमायातं संपूर्ण मे मनोरथाः // विहिता मैथुनेनापि मम बुद्धिर्दुरात्मना / तदेदृशौ महापापपूरपूरितचेतसः // मयूरमञ्जरी यावन्न भुक्नेयं वरानना / पृथुस्तनौ विशालाक्षी धाममध्यातिकोमला // For Private and Personal Use Only