________________ Shri Mahavir Jain Aradhana Kendra a Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / ततो दमनको नाम स्वचेटस्तेन मन्त्रिण / प्रच्छन्नं प्रहितस्वर्ण हरेर्वृत्तान्तसूचकः // संदिष्टं च यथा शीघ्र कुमार कुलभूषण / त्वया ममानुरोधेन देशः संत्यज्यतामयम् // ततो दमनकाच्छ्रुत्वा सुबुध्यभ्यर्थनां हरिः / समुद्रलङ्घने चित्तमभौतोऽपि चकार मः // प्रथैकान्ते ममानेन वृत्तान्तो निखिलस्तदा / कथितो हरिणा भद्रे गाढं विश्रब्धचेतसा // उक्तं च हरिणा / अकार्यकुपितो राजा समादिष्टं च मन्त्रिणा / अतः समुद्रमुलंध्य गन्तव्यं भारते मया // न चाहं क्षणमप्येकं शक्नोमि रहितस्त्वया / स्थातं ततः प्रतिष्ठख गच्छामो धनशेखर // मया चिन्तितं / रनोपार्जनविघ्नो हि सर्वथायं हरिर्मम / तथापि का गतिर्नूनं गन्तव्यममुना सह // ततो मयोक्तं / कुमार यत्ते रोचते किमत्र वयं ब्रूमः / हरिराह / यद्येवं ततो वयस्य निरूपय किंचिनिष्ठुरं यानपात्रं / यतोऽस्ति मे भाण्डागारे महत्तमो रत्नराशिस्तं ग्टहीत्वा गच्छाम इति / मयोक्तं। यदादिशति कुमारः / ततो निरूपिते हे यानपात्रे / भृतमेकं हरिरत्नानामपरमात्मरत्नानामिति / ततः संजातः प्रदोषसमयः / गतो वञ्चयित्वा निःशेषं परिजनं वसुमतीमयूरम For Private and Personal Use Only