________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घष्ठः प्रस्ताव:। GEE सच तादृशवाक्येन वाहत वान्तरा / तथापि नौलकण्ठस्य कृतवाननुवर्तनम् // उतं च तेन सुबुद्धिमन्त्रिणा / यदुत / एवं विधीयतां देव यत्ते मनसि रोचते / अयुक्त न प्रवर्तन्ते बुद्धयो हि महात्मनाम् // ततश्च / स सुबुद्धिर्नरेन्द्रश्च कर्तव्यं हरिमारणम् / एवं संस्थाप्य सिद्धान्तं खं खं गेहमुपागतौ // अथावदातसदुद्धेः सुबुद्धेर्मनसौदृशाः / तदा विकल्पाः संजातास्तच्छ्रुत्वा राजजल्पितम् // धिग् धिग् भोगसुखासङ्गं धिगज्ञानविजम्भितम् / धिगहो राज्यलाम्पत्यं कुविकल्पशतालयम् // यदेव पूर्व देवस्य जीवितादपि वनभः / जामाता भागिनेयश्च हरिः सर्वगुणाकरः // अधुना वर्तते देव्यो वध्यः शत्रोः समर्गलः / तदत्र भोगष्णान्ध्यं विमुच्यान्यन्न कारणम् / तथाहि / कथं विनौतः द्धात्मा निर्लोभः पापभोरुकः / म हरिः स्वप्रकालेऽपि हरेद्देवस्य शासनम् // तदयं राज्यमोहेन मूढो राजा न संशयः / तथापि रक्षणीयोऽसौ रत्नभूतो मया हरिः // For Private and Personal Use Only