________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः प्रस्तावः। 63 निर्मूल्यकर्मकरोऽनेन हरिणा / न विठपितास्ते मयेहापि प्राप्तेनाभीष्टा रत्नमञ्चयाः / तदिदमापतितं यहीयते लोके / यदुत / रासभः किल संप्राप्तः स्वर्ग सर्वसुखाकरे / यावत्तत्रापि संप्राप्तो रजको दामहस्तकः // तथाहि / निर्विघ्नः किल लास्यामि रत्नमवातमुच्चकैः / यावदवापि संजातो विघ्नोऽयं मित्ररूपकः // न चैषोऽधना सर्वथा परिहतुं शक्यो यतो राजपुत्रोऽयं प्रचण्डश्च रुष्टः सर्वस्वमपहरति / तस्मात् क्वचिदत्यन्तदूरेण क्वचिदासन्नवर्तिना / क्वचित्मामान्यरूपेण वर्तितव्यं मया सदा // रत्नोपार्जनतनिष्ठः खार्थचतिविवर्जकः / हरेरपि कचिद्गत्वा करिय्ये चित्तरञ्जनम् // ततः कृतं मया यथा चिन्तितं / मौलितो रत्नराशिः। तत्र च मूर्छितः करोमि विवेकिलोकहास्था नानारूपा विडम्बनाः। तथाहि तानि रत्नानि मूविकलचेतनः / क्वचिद्विस्फारिताक्षोऽहं संपश्यामि पुनः पुनः / / क्वचित्स्पृशामि हस्तेन मुहुरुच्छालयामि च / क्वचिद्वक्षःस्थले दत्त्वा इष्टतष्टो भवामि च // निखनामि क्वचिह्नत कुर्व चिहशतानि च / दृष्टः केनचिदित्येवमुत्खनामि पुनः क्षणात् // For Private and Personal Use Only