________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 862 उपमितिभवप्रपञ्चा कथा / प्रणयिवर्गः संवर्गितो राजलेोकः ताषिताः प्रकृतयः कृतमु चितकरणीयं / वृत्तो विवाहानन्द इति / अथ तां नौलकण्ठस्य जीवितादपि वल्लभाम् / मयरमञ्जरौं प्राप्य भायीं सर्वाङ्गसुन्दराम् // स हरिर्मिनन्देन परिवारितविग्रहः / ललमानः परां ख्यातिं रत्नद्वीपे तदा गतः // असूनानलकण्ठस्य परिवारः सबान्धवः / तत्रानुरक्तः संपन्नो हरौ भूरिगुणोत्करे // अन्तःपुरं पुरं लोकाः मदेशं राजमण्डलम् / नाम्ना हरिकुमारस्य जायते तोषनिर्भरम् // दूतश्च / ममाग्टहीतसङ्केते स हरिः स्नेहनिर्भरः / दियोगं क्षणमप्येक नेच्छत्येव तदात्मना / मम पुण्योदयेनासौ जनितस्तेन मोलकः / सद्भावस्नेहसारेण वयस्येन महात्मना / तथाहि / तेन मह तिष्ठतो मे निरुपमं विषयसुखं देवदुर्लभा विलामा विशिष्टजनस्पृहणीया गोठी वर्धते प्रज्ञातिशयः समुलसति लोके यशःपटहः संपद्यते गौरवं / तथापि प्रेर्यमाणस्य मागरेण क्षणे क्षणे / मम जातास्तदा भद्रे विकल्या मनमोदृशाः // यदुतार्थोपार्जनक्षतिहेतुरेष मम हरिकुमारसम्बन्धः / न सुन्दरो मे ग्रहगोचरः / अनर्थः पर्यपस्थितोऽयं / कृतोऽहमात्मनो For Private and Personal Use Only