________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घष्ठः प्रस्तावः / 861 विनष्ट सर्व खेव कृपणिका मर्वथा गतच्छाया शोकातिरेकपरिदुर्बलागौ कण्ठगतप्राणा लिखिता राजहंसिका / दृष्टं चाधस्तालिखितमिदं तस्या द्विपदीखण्डं / तद्यथा / दयमिह निजकपदयवल्लभतरदृष्टवियुकहंसिका / तदनुस्मरणखेदविधुरा बत शुष्यति राजहंमिका // रचितमनन्तमपरभवकोटिषु दुःमहतरफलं यया। पापममौ नितान्तमसुखानुगता भवतीदृशौ जनाः // ततः स्थितं हरिकुमारस्य हृदये / यथा / अहो राजदुहितुः कौशलं अहो रसिकत्वं अहो मारग्राहिता अहो सद्भावार्पणं ग्रहो मयि दृढानुरागः / तथाहि / विद्याधरमिथुनानुलेखनेन दर्शितो ऽनया स्वाभिलाषातिरेकः / राजहंसिकाविन्यासेन प्रकटितमभिलषितवस्त्वप्राप्तिकृतमात्मनि दैन्यं / भावदानेनैव परिस्फुटं द्विपदीखण्डद्वयेन पुनर्नितरां परिस्फुटीकृतोऽयमेव भावार्थः / ततो दर्भितो मन्मथादौनां चित्रपटः / तैरभिहितं / कुमार गत्वा संधार्यतामियं वराकी राजहंसिका। अलं म्रियमाणयोपेक्षितया। कुमारेणोक्त / एवं भवतु || ततो गताः सर्वेऽपि राजमदने / दत्ता सबहुमानं नीलकण्ठराजेन हरिकुमाराय मयूरमञ्जरौ। ततः शुभदिने प्रवृत्तो विवाहमहोत्सवः / स च कीदृशः / मधुमत्तविघूर्णितभूरिजनो बहुलेोकयमितदत्तधनः / धुमदामपि विस्मयतोषकरो जननर्तनखादनपानपरः // ततः पूजिता देवगुरवः सम्मानिताः सामन्ताः पूरितः For Private and Personal Use Only