________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8 उपमितिभवप्रपञ्चा कथा / निखाय पुनरन्यत्र लाञ्छितप्रतिलाञ्छितम् / कृत्वा निरीक्षमाणस्तं निधिं तिष्ठामि सर्वतः // अविश्वासान मे रात्रौ निद्रा नापि दिवा मुखम् / धने मूर्छितचित्तस्य भद्र मागरदोषतः // ततोऽन्तरान्तरा गत्वा क्वचित्पश्यामि तं हरिम् / तिष्ठामि मततं गेहे रत्नोपार्जनलालुपः // चिन्तयामि च रत्नानि दीपे यान्यत्र कानिचित् / यद्यहं तानि सर्वाणि ग्टहीत्वा यामि पत्तनम् // ____ एवं च तिष्ठतस्तत्र रनौपे तदा मम / भद्रे योऽन्योऽपि संपन्नो वृत्तान्तस्तं निशामय || या कर्मपरिणामस्थ महादेवौ पुरोदिता / मा कालपरिणत्याख्या प्रसिद्धा भुवनत्रये // तस्या अनुचरौ लोके ख्यातौ यौवनमैथुनौ / अत्यन्तरसिकौ भद्रे क्वचिदेवं प्रजल्पितौ // यौवनेनोक्तं / मित्र संमारिजीवोऽसौ संप्राप्तो वावर्तिताम् / धनशेखररूपेण वर्तमानो ममाधुना // अतोऽस्ति तत्समीपे भो भवताऽपि न संशयः / प्रस्तावो गन्तुमित्येवं संस्थिते गम्यतामिति // मैथुनेनोक्तं / यद्येवं दर्शयनं मे कुत्रचिद्धनशेखरम् / सम्बन्धं च ममानेन मित्र योजय साम्प्रतम् // For Private and Personal Use Only