________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः प्रस्तावः। भूषणानि / न विदधत्यङ्गरागं। न समानयति ताम्बूलं / न प्रतिजागति खयमारोपितं बालारामकं / न सम्मानयति वयस्याजनं / न संभालयति शुकसारिकागणं / न ललते लोलाकन्दुकेन / प्रालिखति विद्याधरमिथुनानि / प्रलोकयति मारमयुगलानि / धावति पुनः पुनराभिमुखं। निन्दति मुहुर्मुहुरस्फुटाक्षरैरात्मानं / रुष्यति निष्कारणमेव मखोजनाय / न ददाति पृष्टापि प्रतिवचनं / किं बहुना। उन्मत्तेव शून्येव भूताविष्टेव सर्वदा / मयूरमञ्जरी वत्मा क्षणदन्येव संस्थिता / तत्कथय भगवति-निपुणासि त्वं निमित्तशास्त्रे-किं पुनरेषा चिन्तयति / अन्यच्च / लश्यते तदभौष्टं वस्तु न वा कियता वा कालेनेति / मयोकं / एषा निरूपयामि / ततः ऋष्टमारधा मया होरा। न्यस्तं सिद्धिरिति पदं। आलिखितं. मरखतौवदनं। विन्यस्ता ध्वजादयोऽष्टायाः। विरचितं नारोदयवर्तिनी कौटिलगोमूत्रिकाचयं / व्युत्मष्टा विगणय्य विगणय्याष्टकाः। पातितमनुक्रमं तच्छेषानुसारेणाङ्कत्रयं / ततोऽभिहितं मया / महादेवि समाकर्णय / ध्वजो धमस्तथा सिंहः श्वा बलोवर्द इत्यपि / खरो गजेन्द्रो ध्वांचच अष्टायाः परिकीर्तिताः // एतेषां चाष्टानामप्यायानामष्टविधं बलं भवति / तद्यथा / कालवासरवेलानां मुहर्तककुभोस्तथा / नक्षत्रग्रहयोश्चैव निसर्गबलमष्टमम् // तत्रामी महादेवि For Private and Personal Use Only