SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा। भैषजं पुनरस्य निर्मूलोच्छेदकं भवतो विकारस्य यदि परं सैव परिवाजिका विज्ञास्यति संपादयिष्यति वा नापरः। तद्विधीयतां कुमार तस्याः पर्यषणमलं कालविलम्बेन / कुमारेणोक्त / पद्मकेसर यत्त्वं जानासि तदेव क्रियतां / पद्मकेसरः प्राह / यद्येवं तर्हि कस्तदन्वेषणार्थं प्रहीयतामिति / ततः शेषमित्रेय्वविश्वामात्कुमारेणोक्तं / धनशेखरः प्रस्थाप्यतामिति / मयोक्तं / महाप्रसादः / ततो निर्गितोऽहं / गन्तुं प्रवृत्तो नगराभिमुखं / दृष्टान्तराले मा परिवाजिका / विहितः प्रणामः / पृष्टा च / भगवति कोऽयं चित्रपट्टिकावृत्तान्तः का मा कन्यका किमर्थं चोचलितामि। तयोक्तं / अाकर्णय / अस्ति तावत्प्रत्यूषस्येव प्रविष्टाहं कणभिक्षार्थं / दूतश्चास्यैव नौलकण्ठनरपतेरस्ति शिखरिणी नाम महादेवी / प्राप्ताहं तस्था भवने यावदृष्टा मया मचिन्ता महादेवी समुद्दिनः परिकरो विषणः कन्यकाजनः पर्याकुलाः कञ्चुकिन: आशीर्वादमुखरः स्थविरिकालोक इति / ततो मया चिन्तितं / हा किमेतत् / उपमर्पिता शिखरिणौ। विहितमाशौर्दानं / कृतस्तया मे शिरःप्रणामः / दापितमासनं / उपविष्टाहं / अभिहितमनया / भगवति बन्धुले प्रतीतैव तावदियं भगवत्या मम जीवितादपि वल्लभतरा मयरमञ्जरी वत्मा / इयं चाद्य सूर्योदयादारभ्य केनचित्कारणेन ममध्यामिता चिन्तया ग्टहीता रणरणकेन खौकता बहदरत्या प्रतिपन्ना विकारजालेन अङ्गीकृता शून्यतया अवष्टया महाज्वरेण / परित्यक्तमनया राजकन्योचितं करणीयं / न करोति देवगुरुप्रणाम / न परिवर्तयति रात्रिवस्त्राणि / न ग्टहाति For Private and Personal Use Only
SR No.020850
Book TitleUpmiti Bhav Prapanch Katha Part 02
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages599
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy