________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः प्रस्तावः। CG ते वृत्तरासु गतिषु भवन्ति बलवत्तराः // त्वया पुनरत्र किंचिबालोचितं / केवलमुद्दाटमुखतया विहितः कुमारशरौरविकारनिर्देशः / कपोल: प्राह / ननु प्रतीता एव कुमारस्य सम्बन्धिनो मे प्रकृत्यादयः / संचयादयोऽपि दोषाणां ज्ञायन्त एव / तथाहि / गौभाहोरात्रवयसामन्तेऽजीर्णस्य चानिलः / कफस्तदादौ तन्मध्ये पित्तं कुप्येच्छरद्यपि // गौमाद्येषु समौरस्य पित्तस्य प्राडादिषु / चयप्रकोपप्रशमाः कफस्य शिशिरादिषु // हेमन्तशिशिरौ तुल्यौ शिशिरेऽल्पं विशेषणम् / रूक्षमादानजं शीतं मेघमारुतवर्षजम् // अथवा परिस्फुरति मम हृदये सर्वमिदं / किं बहुनालोचितेन / अजीर्णविकार एवायं कुमारस्य / ततोऽहो विमूढतास्य कपोलस्येति चिन्तयता हसितं हरिकुमारेण / वयस्यैरुक्तं / कुमार किमेतत् / कुमारेणोक / भो भावितोऽहमस्य कपोलस्य मूर्खतया / ततः समुद्भूतं मे धारयतोऽपि हसनं / पद्मकेसरेणोक्त। कुमार महाप्रसादः / सिद्धं नः समौहितं / तथाहि / कुमारस्य विनोदाथें मनस्तापनिवृत्तये // इदमस्माभिरारधमालजालप्रभाषणम् / यतः / चित्तोदेगनिरासार्थं सुहदां तोषवृद्धये / तज्ज्ञाः प्रहसनं दिव्यं कुर्वन्येव विचक्षणः // For Private and Personal Use Only