________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir CCO उपमितिभवप्रपञ्चा कथा / ततो विहस्योक्त' हरिकुमारेण / प्रथमं तावदेवं भव्यते / दासौ असि गणिका भवसि तेन कारणेन तव इस्तानियां न ग्टहामि / शेषं स्फुटमेव / द्वितीयस्य पुनरेष भङ्गः / करो इस्तोऽतिकठिनो गाढनिष्ठुरस्तव हे राजन् अरोभकटघट्टनं शत्रुकरिकुम्भास्फालनं विधत्ते कुरुते तथा करवालस्ते निर्मूलां शत्रुसंहतिं विधत्त इति सम्बन्धः / मन्मथेनोक्त / अहो कुमारस्य प्रज्ञातिशायः / इतश्च तस्मिन्नेव चणे मयापि चिन्तितं गूढचतुर्थकमेकं / निवेदितं हरिकुमाराय / ततस्तदुक्तेन पठितं मया / यदुत विभूतिः सर्वसामान्या परं शौर्य चपा मदे / भूत्यै यस्य स्वतः प्रज्ञा / विचिन्त्य हरिकुमारेण लब्ध हृदये। तुष्टश्चेतसाभिहितमनेन। साधु सखे धनशेखर साधु चारु विरचितं गूढचतुर्थ भवता / ततः समस्तैरभ्यधायि / कुमार कीदृशोऽस्य तरीयः पादः / कुमारेणोक्त / “पात्रभूतः स भूपतिः" इति / एतदाकी विस्मिता वयस्याः। कपोलः प्राह। मदीयमपि गूढचतुर्थमाकर्ण यत् कुमारः। वद वदेत्यु हरिणा पठितं कपोलेन / न भाषणः परावर्ण यः समो रोषवर्जितः / भूतानां गोपकोऽत्रस्तः // तदनन्तरमेवोक्त हरिकुमारेण / “म नरो गोचभूषणः" / कपोलः प्राह / मादृशामिदं कुर्वतां केवलं कालविलम्बोऽभूत्र पुनः कुमारस्य / अहो सर्वत्राप्रतिहतशक्तिः कुमारस्य बुद्धिप्रकर्षः / शेषैरभिहितं / एवमिदं नात्र सन्देहः // For Private and Personal Use Only