________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पछः प्रस्तावः। ESE हरिकुमारेणोक्त / पुनः पठ / पठितं पद्म केसरेण / विचिम्योक हरिणा / इदमत्रोत्तरं दलनायाः / ततोऽर्हद्दर्शनवासितमतिनाभिहितं विलासेन / कुमार मयापि चिन्तितं किंचित्प्रश्नोत्तरं / हरिकुमारेणोक / पठ / पठितं विलासेन / कौदृग्राजकुलं विषौदति विभो नश्यन्ति के पावके बोध्यं काननमच्युतश्च बहवः काले भविष्यन्यलम् / कौदृक्षाश्च जिनेश्वरा वद विभो कस्यै तथा रोचते गन्धः कीदृशि मानवे जिनवरे भकिन संपद्यते // हरिकुमारः प्राह / सहदिदं व्यस्तं समस्तं च / अतो भूयः स्पष्टतरं पठतु भवान् / पठितं विलासेन / विमृश्योक्तं हरिणा / इदमत्रोत्तरं। अकुशलभावनाभावितमानसे / हसितं विभ्रमेण / कुमारेणोक्तं / भद्र किमेतत् / विभ्रमेणोक / कुमार चार विहितं भवता यदस्य विलासस्थापनौतः प्रश्नोत्तरगर्वः / न लब्धमिदमस्माभिरामौत् / ततोऽयं गर्वितोऽभूदिति / विलासेनोक्त / वत्म न केवलं मम किं तर्हि निर्दलयति सर्वेषामप्यद्य गर्व कुमारः। पठत्वन्योऽपि येन यत्किंचिचिन्तितमिति / मन्मथेनोक्त / कुमार मया स्पष्टान्धकद्वयं चिन्तितं / कुमारेणोक्त / झटिति पठत्वार्यः / पठितं मन्मथेन / दास्यसि प्रकटं तेन ग्लानि न करात्तव / भिक्षामित्युदिता काचिद्भिक्षुणा लज्जिता किल // तथा करोति कठिनो राजनरौभकटघट्टनम् / विधत्ते करवालस्ते निर्मूला शत्रुसंहतिम् // For Private and Personal Use Only