________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 878 उपमितिभवप्रपञ्चा कथा / नो इकारादयस्तावद्भवन्त्येवं परिस्फुटाः / भद्र कल्लोलका यावन्न क्षुब्ध मानसं सरः / ___ यदि च मदचने न प्रत्ययो भवतस्ततः कुमारमेव पृच्छ येन परिस्फुटीभवत्येषोऽर्थः / हरिकुमारणोतं / सखे पद्मकेमर अलमनेनासंबद्धप्रलापेन / पठ तावत्किंचिच्चारुप्रश्नोत्तरं / ततः महासमभिहितमनेन / यदाज्ञापयति कुमारः / पठितं च / पश्यन् विस्फारिताक्षोऽपि वाचमाकर्णयन्नपि / कस्य को याति नो बप्तिं किं च संमारकारणम् // हरिकुमारेण तु तया चित्रोपलब्धकन्यकथापहतचित्तेन दत्तः शून्यो हुङ्कारः / पद्मकेसरण चिन्तितं / नेदं प्रायः मम्यगवधारितं कुमारेण / ततः पुनः स्फुटतरं पठामि / पठितमनेन / पुनर्दत्तो हरिकुमारेण शून्य एव हुङ्कारः / ततो लक्षितं पद्मकेसरेण यथा शून्यौकतहृदयोऽयमनया चित्रकन्यकया। ततो हसितमनेन / निरूपितानि समस्तैः स्मितगमें परस्परं वदनानि / तदालोक्य प्रत्यागतं हरिकुमारस्य चित्तं। अमौभिरण्याकलितोऽहमिति संजातोऽस्थाभिमानः। संहृतः कुविकल्पः / विहितोऽवष्टम्भः / संपन्नो दत्तावधानः / प्रवर्तितो विमर्शः / ततोऽभिहितमनेन / मा हस मखे। पुनः पठ। पठितः पद्मकेसरेण पश्यन्नित्यादि पुनः प्रश्नः / ततोऽनन्तरमेव हरिकुमारेणोपलब्धमुत्तरं / उक्तमनेन / हु ममत्वमिति / विस्मितः पद्मकेसरः / पुनरन्यत्पठितमनेन / कस्था बिभ्यगौरन भवति सङ्ग्रामलम्पटमनस्कः / वाताकम्पितक्षा निदाघकाले च कौदृक्षाः // For Private and Personal Use Only