________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः प्रस्तावः। 877 पन्नामितैकभूभङ्गौलामन्थरितेक्षण / मन्दं निवेदयत्येषा वचनैरिव कन्यका // कपोलस्फुरितैर्दिव्यैः स्मेरवक्त्राजबन्धुरा / विभाव्यतेऽतिलोलाचौ वहन्ती मकरध्वजम् // तदनेन केनचिच्चित्रकरेणालिखतामू कन्यकां जनितो मे चेतश्चमत्कारः। स्थितमिदं मनसि मे यथा नास्तीदृशमन्यस्य जगति कौशल मिति। मन्मथः प्राह / पद्मकेसर किं सत्यमिदं / पद्मकेसरेणोक। मखे सत्यं / केवलं विचित्ररूपाः प्राणिनां चित्तवृत्तयः / ततो में चित्रकरादपि चित्रे कुशलतरयमेव कन्यका प्रतिभासते। ललितेनोक। सखे किमनया विहितं / कच्चिचित्रमवलोकितं भवता / पद्मकेसरः प्राह / बाढमवलोकितं / विलासेनोक्त / सखे वर्णय तत्कौदृशं / पद्मकेसरः प्राह / यदनया कन्यकया दुर्गममन्यनारीणं दुलंध्यमम्बरचरौणमहायं किन्नरोणां अमाध्यममरसुन्दरीणां विषयो गन्धर्वादिपुरीणां मदनातुराणामपि सत्त्वैकमारमपहस्तितरजस्तमोविकारं कुमारमानसं चित्रविन्यस्तरूपयापि दृढमवगाहितं पदमनया कन्यकया चित्रं विहितं। तच्च मयैव न केवलमवलोकितं किं तर्हि स्फुटतरं भवनिरपि। विभ्रमः प्राह / नन्वाश्चर्यमिदं कथं चित्रं / पद्मकेसरेणोक्त / ननु मूर्खचूडामणे पाश्चर्यमेव चित्रशब्देनोच्यते / कपोलः प्राह / कथमिदमवगतं भवता यथा कुमारमानसमनयावगाहितमिति / पद्मकेसरेणोक्तं / ननु वठरशेखर किमिदमेतावन्मात्रमपि न खक्षयसि / तथाहि। For Private and Personal Use Only