________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / ततः कुमारमाचितं मविकारं विलोक्य मा। व्रजामौत्यभिधायोच्चैः शीघ्रमेव विनिर्गता // कुमारोऽपि च तां पश्यन्नशरीरशरेरितः / विकारकातरः सर्वैर्वयस्यैरुपलक्षितः / / यतः। क्षणं अङ्कारकरणं क्षणं मूर्ध्नः प्रकम्पनम् / क्षणं च स्कोटिकादानं क्षणमव्यक्तभाषणम् // क्षणं दौष्णनिःश्वास क्षणं च करधूननम् / मुडमुडचित्रगतां तां वौक्ष्य कुरुते हरिः / क्षणं स्मेरमुखोऽत्यन्तं विस्फारयति लोचने / क्षणं निष्पन्दमन्दाक्षः स्निग्धचक्षुर्निरौक्षते // ततोऽभिहितं स्मितबन्धुरं मन्मथेन / कुमार किमिदमात्मगतविविधरममारमप्रकटितकरणाङ्गहारं नरौनृत्यते / ततः कृतमाकारसंवरणं हरिणा। अभिहितमनेन। अहो रञ्जितोऽहमनेन चित्रकरकौशलेन। तथाहि। पच सुविशुद्धा रेखा संगतानि भूषणानि उचितक्रमा वर्णविच्छित्तिः परिस्फुटो भावातिशय इति / दुष्कर च चित्रे भावाराधनं तदेव चाभिमतमतिविदग्धानां। तस्य चात्र प्रकर्षः परिस्फुटो दृश्यते / यस्मादुपारूढयौवना समदना चेयमालिखिता कन्यका तदस्यां सम्बन्धिनममुं भावविशेषमनिवेदितमपि अक्षयन्ति बालका अपि किमुत विद्वांसः / तथापि। लावण्यमुहिरन्तीव प्रोभिन्नस्तनचचुका / एषा प्रोद्दामतारूण्यमात्मानं कथयत्यलम् // For Private and Personal Use Only