________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पछः प्रस्तावः / 875 संपनं सुन्दरं चेदं यदत्रागमनं तव / मयोक्तं / देव श्रुतो मया सर्वो वृत्तान्त: कथितोऽम्बया / श्रत्यादरं मृत्यजने न देवः कर्तुमर्हति // यथानुजौवी तातो मे तत्र केसरिभूपतेः / तथाहमपि देवस्य किङ्करो नात्र संशयः // ततो गाढतरं तुष्टः श्रुत्वा तन्मामकं वचः / म हरिः कारयत्युच्चैर्मित्रागममहोत्सवम् // ततो हरिकुमारेण साधं मित्रममायुजा / ललमानस्य मे तत्र लीलया यान्ति वासराः // अन्यदा मन्मथोद्दीपो वनराजिविभूषणः / प्रमोदहेतुर्जन्तूनां वसन्तः ममुपागतः // ततो हरिकुमारोऽसौ ग्टहीत्वा मित्रमण्डलम् / बभ्रमौति मया युक्तो दिदृक्षुः काननश्रियम् // अथ चूतवनं प्राप्य प्रकूजत्कलकोकिलम् / सहितो मित्रवृन्देन निविष्टस्तत्र लीलया // यावज्जराविशौर्णाङ्गी रौद्राकारविधारिणौ / आशीर्वादं च कुर्वाणा वतिनी काचिदागता || . अथ प्रणामसम्भाषैः कुमारेणाभिनन्दिता / मा दर्शयति सानन्दं चित्रविन्यस्तकन्यकां // तां चार्पयित्वा मा प्रौढा गाढदर्शितविक्रिया / कुमारभावं पश्यन्ती मंस्थिता स्तिमितेक्षणा // For Private and Personal Use Only