________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 874 उयमितिभवप्रपञ्चा कथा / रत्नदीपं यास्यामि / मया चिन्तितं / श्रुतो मयास्ति रत्नदीपे कमलसुन्दर्याः महोदरो नीलकण्ठो राजा / तदेनं दारकं भागिनेयमनेनैव सुमार्थेन गत्वा तस्मै मातुलाय समर्पयामि / ततः समागताहं तेन धरणेन मार्थवाहेन मार्धमिमं द्वौपं / दारकस्नेहेन च प्रस्तुतं मे स्तनयुगलं / वर्धितोऽसौ मदीयस्तन्येन / दहितो नौलकण्ठाय / कथिता कमलसुन्दरीवार्ता। जातो नीलकण्ठस्य विषादगर्भो हर्षः / प्रतिष्ठितं दारकस्य हरिरिति नाम / अपि च / वर्धमानः क्रमेणासी जीवितादपि वल्लभः / भागिनेयोऽस्य संपनी नौलकण्ठस्य भूपतेः // ततो ग्राहितः कलाकलापं संप्राप्तो यौवनं संजातः सुरकुमाराकारधारक इति / कथितश्चास्य मया पूर्वको वृत्तान्तः / श्रुतश्च तेन भवान् यदानन्दपुरादागत इति। ततो वत्म स हरिकुमारो भवन्तं सदेशजं मत्वा द्रष्टुमभिलषति / ततस्तत्समीपं गन्तुमर्हति वत्सः / __ मयोक्त। यदाज्ञापयत्यम्बा / ततः सह तया वसुमत्या गतोऽहं हरिकुमारसमोपं / दृष्टो मित्रवृन्दमध्यगतो हरिकुमारः। विहितो मया पादप्रणामः / निवेदितोऽहमस्मै वसुमत्या / ततः मद्दर्शनात्म तुष्टात्मा प्रौतिविस्फारितेक्षणः / गाढमाश्लिष्य मां खोये स्थापयत्यर्धविष्टरे / उक्त चानेन / भद्र अम्बया कथितस्तात वयस्यो हरिशेखरः / मया तस्य च सूनुस्वं विज्ञातो जनवार्तया // ततो भ्रातासि मे भद्र शरीरं जीवितं तथा / For Private and Personal Use Only