________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / चिन्तितं च पुनस्तेन विपर्यामितचेतसा / अहो कृतार्थो वर्तऽहमहो वंशममुन्नतिः // अहो देवप्रसादो मे अहो लक्षणयुकता / अहो राज्यमहो वर्ग: संपन्नं जन्मनः फलम् // अहो जगति जातोऽहमहो कल्याणमालिका / अहो मे धन्यता मर्वमहो सिद्धं ममौहितम् // अपुत्रेण मया योऽयमुपयाचितको टिभिः / प्रार्थितः सोऽद्य संपन्नो यस्य मे कुलनन्दनः // ततः कटककेयूरहारकुण्डलमौलयः / निवेदिकायै लक्षण दीनाराणां महार्पिताः // उल्लमत्सर्वगात्रेण हर्षगद्गदभाषिण।। प्रकृतीनां समादिष्टः सुतजन्ममहोत्सवः // ततो नरपतेर्वाक्यं श्रुत्वा मन्त्रिमहत्तमैः / क्षणेन मदने तत्र वत किं किं विनिर्मितम् // पवननिहतनौरमवातमध्यस्थितानेकथादःसमूहोर्ध्वपुच्छच्छटाघातसंपन्नकल्लोलमालाकुले यादृशः स्यान्निनादो महानौरधौ तत्र गेहे समन्तादथो तादृशस्वयमद्धातघोषः क्षणदुत्थितः / तथा। प्रवरमलयसम्भवक्षोदकश्मीरजातागुरुस्तोमकस्वरिकापूरकर्पूरनौरप्रवाहोक्षसंपन्नसत्कर्दमामोदसन्दोहनिष्यन्दबिन्दुप्रपूरेण संपादिताशेषजन्तुप्रमोदं तथा रत्नमवातविद्योतनिनष्टसूर्यप्रभाजालसञ्चारमालोक्यते तत्तदा मन्दिरम् // बहुनाटितकुमकवामनक प्रविर्णितकचुकिहासनकम् / For Private and Personal Use Only