________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः। जनदापितरत्नसमूहचितं त्रुटितातुलमौक्तिकहारमतम् // लमदुइटवेषभटाकुलकं ललनाजनलामविलासयुतम् / वरखाद्यकपानकतुष्टजन जनित प्रमदादिति वर्धनकम् // अथ तादृशि वर्धनके निखिले प्रमदेन च नृत्यति भृत्यगणे / अतिहर्षवशेन कृतोलभुजः स्वयमेव ननत चिरं स नृपः // ततस्तत्तादृशं दृष्ट्वा महासंमर्दगुन्दलम् / / प्रकर्षः संशयापनः प्रत्याह निजमातुलम् // निवेदयेदं मे माम महदत्र कुतहलम् / किमितीमे रटक्युच्चै निर्वादितमुखा जनाः // अत्यर्थमुखलन्ते च किमर्थमिति मोदिताः / किं चामो मृत्तिकाभारं निजाङ्गेषु वहन्ति भोः // चर्मावनद्धकाष्ठानि दृढमास्फोटयन्ति किम् / विष्टासंभारमुक्कोल्यो मन्दं मन्द चलन्ति किम् // किं वैष मदनस्यास्य नायकः पृथिवीपतिः / बालहास्यकरं मूढः करोत्यात्मविडम्बनम् // तदत्र कारणं माम यावबो लक्षितं मया / इदं तावन्ममाभाति महाकौतुककारकम् // विमर्श: प्राह ते वत्म कथ्यतेऽत्र निबन्धनम् / यदस्य सकलस्थापि वृत्तान्तस्य प्रवर्तकम् // पश्यतस्ते प्रविष्टोऽत्र य एष नृपमन्दिरे / मिथ्याभिमानस्तेनेदं तात सर्वं विजृम्भितम् // अयं हि राजा जातो मे सूनुरेवं विचिन्तयन् / For Private and Personal Use Only