________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 605 द्वितीया मतिकलिता नाम महादेवौ। मा च तस्मिन्नेव ममये दारक प्रसूता / अथ तत्र जातमात्रे राजसूनौ भास्करोदये विकसितमिव तामरसं व्यपगततिमिरनिकरमिव गगनतलं विनिद्रमिव सुन्दरजननयनयुगलं भुवनमिव खधर्मकर्मव्यापारपरायणं नट्राजभवनं राजितं प्रवृत्तं। कथं। विरचिता मणिप्रदीपनिवहाः / विस्तारिता मङ्गलदर्पणमालाः। संपादितानि भूतिरक्षाविधानानि / निर्वर्तिता गौरमिद्धार्थकैनन्दावर्तशतपत्रलेखाः। निवेशिताः सितचामरधारिण्यो विलासिन्यः / ततः प्रचलिता वेगेनास्थानस्थायिनो भूपतेः सुतजन्ममहोत्सवं निवेदयितुं प्रियंवदिका / कथं / रभसोद्दामविसंस्थुलगमनं गमनस्वलितसनूपुरचरणम् / चरणाचलत्तोत्तालितहदयं हदयविकम्पस्फुरितनितम्बम् // स्फुरितनितम्बनिनादितरसनं रसनालनपयोधरमिचयम् / मिचयनिपातनलज्जितवदन वदनशशाङ्कोद्योतितभुवनम् // अपि च / नितम्ब बिम्बवक्षोजदुर्वारभरनिःसहा / तथापि रभसाहाला वेगाद्धावति मा तदा // निवेदिते तया राजपुत्रजन्ममहोत्सवे / श्रानन्दपुलको दनिर्भरः समपद्यत || अत्रान्तरे प्रविष्टो मिथ्याभिमानः। ततोऽधिष्ठितमनेन रिपुकम्पनशरीरं / ततश्च / तेनावष्टम्वचित्तोऽसौ तदानौं रिपुकम्पनः / न मानसे न वा देहे नापि माति जगत्त्रये // For Private and Personal Use Only