________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / तेषामेवंविधानान वत्म कः प्रष्टुमर्हति // मद्यं हि निन्दितं सद्भिर्मा कलहकारणम् / मद्यं मर्वापदां मूलं मद्यं पापशताकुलम् // न त्यजेयमनं मद्ये पारदार्य च यो नरः / यथायं वत्स लोलाक्षस्तथामौ लभते क्षयम् // मद्यं च पारदार्थ च यः पुमांस्तात मुञ्चति / स पण्डितः स पुण्यात्मा म धन्यः स कृतार्थकः // प्रकर्षणोक्तं / एवमेतन्नास्त्यत्र संशयः। ततस्तयोस्तत्र नगरे विचरतोर्गतानि कतिचिद्दिनानि / अन्यदा मानवावासपुरे राजकुलामन्ने दृष्टस्ताभ्यां पुरुषः / प्रकर्षणोतं / माम म एष मिथ्या भिमानो दृश्यते / विमर्शनोकं / सत्यं स एवायं / प्रकर्षः प्राह / ननु राजमचित्तनगरे किलाविचलेोऽयं / तत् कथमिहागतः। विमर्शनोक / एवं नाम मकरध्वजस्योपरि मप्रसादो महामोहराजो येनास्य राज्य यदचलं निजबलं तदप्यानौतं / केवलं कामरूपितयायं मिथ्याभिमाना मतिमाहश्च यद्यपी हानौती दृश्येते तथापि तयोरेव राजमचित्तताममचित्तपुरयोः परमार्थतस्तिष्ठन्तौ वेदितव्यौ / प्रकर्षणोक। माम कुत्र पुनरेषोऽधुना गन्तुं प्रवृत्तः / विमर्गे नेाकं / भद्राकर्णय / योऽसौ दृष्टस्त्वया रिपुकम्पन: म निहते लोलाक्षेऽधुना राज्य ऽभिषिकः / तस्य चेदं भवनं। अतोऽयं मिथ्याभिमानः केनचित् कारणेनेदं राजसदनं प्रवेष्टुकाम व लक्ष्यते / प्रकर्षः प्राह / ममापौदं नरपतिनिकेतनं दर्शयतु मामः / विमर्शनोतं / एवं करोमि / ततः प्रविष्टौ तौ तत्र नृपतिगेहे // इतच तस्य रिपुकम्पनभूपतेरस्ति For Private and Personal Use Only